welcome

विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,५९४ पृष्ठानां सङ्ग्रहः विद्यते ।

गुरुवासरः, जून ६, २०१९; समयः- १०:१८ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

  • उक्तयः


  • सूक्तयः


  • वेदसूक्तिः


  • ग्रन्थाः

  • चित्रकाव्यम्


  • उपनिषद्वाक्यानि


  • चाटुचणकः


  • प्रहेलिकाः

  • सुभाषितानि


  • लौकिकन्यायाः

अद्यतनी वेदसूक्तिः

मर्यादे पुत्रमाधेहि ॥ (अथर्ववेदः ६-८१-२)

सन्ततिप्राप्तौ मितिः स्यात् ।







इयं नः गीर्वाणी...

संस्कृतं राष्ट्रियैकतायाः प्रतीकम् अथवा सारभूतमस्ति । तथा च एशियाखण्डस्य जगतः अन्यभागानां च संयोजनसूत्रमस्ति । संस्कृतं केवलं सैद्धान्तिकम् आराधनवस्तु न । जीवितरूपेण समृद्धभाषारूपेणा च तस्य अध्ययनं प्रसारः च कवेः कालिदासस्य श्रद्धाञ्जलिमात्रं न अपि तु भविष्यदर्थम् आत्मानं सिद्धं कर्तुम् उपक्रमश्च वर्तते ।
- के.आर्. नारायणन्





हे चतुर, वद उत्तरम् !

कुम्भकारगृहेऽप्यर्धं
तदर्धं हस्तिनापुरे।
तस्य युग्मं च लङ्कायां
यो जानाति स पण्डितः॥

कुम्भकारस्य गृहे अर्धभागः, हस्तिनापुरे अर्धभागः, तयोः युग्म लङ्कायां विद्यते । किमिति यः जानाति सः पण्डितः ।

उत्तरम्

कुम्भकर्णः






चाटुचणकः

मतर्जीव किमेतदङ्गुलिपुटे तातेन गोपाय्यते
वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् ।
मात्रैवं प्रहिते गुहे विघटयत्याकृष्य सन्त्याञ्जलिम्
शम्भोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥

कदाचित् शिवः ध्यानमग्नः आसीत् । तदा सः करस्य उपरि करं स्थापयित्वा उपविष्टः आसीत् । तत् दृष्ट्वा बालकः गुहः मातरं पृष्टवान् - ‘अम्ब ! तातस्य अङ्गुलिपुटे किम् अस्ति ?’ इति । तदा विनोदाय पार्वती उक्तवती - ‘वत्स ! तत्र स्वादुफलम् अस्ति ।’ गुहेन पृष्टम् - ‘तत् सः मह्यं किमर्थं न ददाति ?’ पार्वत्या उक्तम् - ‘भवान् एव गत्वा तत् स्वीकरोतु’ इति । गुहः झटिति गत्वा पितुः करं गृहीत्वा आकृष्टवान् । एतेन शिवस्य ध्यानस्थितिः भग्ना । पुत्रस्य कृत्यं दृष्टवतः तस्य हासः आगतः । स च हासः भवतः सर्वान् रक्षतु ।







भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः

विकिपीडिया
स्वतन्त्रविश्वविज्ञानकोशः
विकिशब्दकोशः
शब्दकोशपर्यायशब्दकोशश्च
विकिपुस्तकानि
सौजन्यपाठपुस्तकानि
विकिस्रोतः
स्वतन्त्रसामग्रीपुस्तकालयः
अण्डकुलायनिलायस्ययन्त्र
हि तन्मात्रनवभाषापाठान्तरम्
सामान्यम्
सर्वसामान्यमिडियास्थलम्


विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

This article is issued from Wikiquote. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.