welcome

विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,६५० पृष्ठानां सङ्ग्रहः विद्यते ।

रविवासरः, मार्च ८, २०२०; समयः- १६:५४ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

  • उक्तयः
  • सूक्तयः
  • वेदसूक्तिः
  • ग्रन्थाः
  • चित्रकाव्यम्
  • उपनिषद्वाक्यानि
  • चाटुचणकः
  • प्रहेलिकाः
  • सुभाषितानि
  • लौकिकन्यायाः
  • गीतानि

अद्यतनी वेदसूक्तिः

भद्रा इन्द्रस्य रातयः ॥ (ऋग्वेदः ८-६२-१)

भगवतः उपायनानि सदा भवन्ति कल्याणकराणि ।







इयं नः गीर्वाणी...

भारतीयानां विविधप्रादेशिकभाषाणाम् उच्चारणशुद्धिः अर्थगौरवं पदलालित्यम् इत्यादीनि भाषाकौशलानि संस्कृताभ्यासेन एव सम्यग्रूपेण प्राप्यन्ते । अलङ्कार-समास-छन्दः-प्रभृतीनि शौलीवैशिष्ट्यानि संस्कृतं विना सुरसानि न भवन्ति, यतः अस्माकं मातृभाषायाः संस्कृतस्य च रक्तसम्बन्धः अस्ति । भाषाप्रभुत्वं सुसंस्कृतराष्ट्रस्य प्रथमं लक्षणम् । एतया दृष्ट्या चिन्त्यमाने अवश्यं वक्तव्यं भवति यत् संस्कृताध्ययनं प्राणपोषकम् एव ।
- लज्जारामतोमरः





हे चतुर, वद उत्तरम् !

न तस्यादिः न तस्यान्तो
मध्ये यस्तस्य तिष्ठति।
तवाप्यस्ति ममाप्यस्ति
यदि जानासि तद्वद॥

प्रथमः अर्थः - आदिः नास्ति, अन्त्यं नास्ति, मध्ये यः विद्यते तस्य समीपे भवति । मम अपि अस्ति, भवतः अपि अस्ति । जानाति चेत् उत्तरं वदतु । द्वितीयः अर्थः - नकारः आदौ अस्ति, नकारः अन्ते विद्यते । मध्ये यकारः विद्यते । तच्च वस्तु मम समीपे अपि विद्यते, भवतः समीपे अपि विद्यते । किं तत् ?

उत्तरम्

नयनम्






चाटुचणकः

भिक्षो मांसनिषेवणं च कुरुषे किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ।
तासामर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽस्ति भवतः भ्रष्टस्य का वा गतिः ॥

कश्चन भिक्षुः (संन्यासी) मांसं खादन् आसीत् । तं दृष्ट्वा कश्चित् अपृच्छत् - ‘आर्य ! किं भवता मांसं सेव्यते ?’ भिक्षुः अवदत् - ‘आम् । किन्तु मांसेन सह मद्यम् अपि नास्ति किल इति मम खेदः’ इति । प्रष्टा आश्चर्येण अपृच्छत् - ‘किं मद्यसेवनाभ्यासः अपि अस्ति भवतः ?’ इति । ‘आम् । यदि तत् वाराङ्गना काचित् दद्यात् तर्हि महान् सन्तोषः’ इति अवदत् भिक्षुः । ‘वाराङ्गनार्थं धनम् आवश्यकं खलु ? तत् कथं प्राप्यते ?’ - प्रष्टा अपृच्छत् । ‘तत् तु द्यूतेन चौर्येण वा प्राप्यते’ - इति शान्ततया अवदत् भिक्षुः । ‘भिक्षुणा सता भवता मांसं मद्यं च सेव्यते । वाराङ्गना उपगम्यते । द्यूतं चौर्यं चापि क्रियते ! किम् एतत् सर्वम् !’ इति आश्चर्येण पृष्टवान् प्रष्टा । तदा भिक्षुः खेदेन अवदत् - ‘यदि भ्रष्टता प्राप्यते तर्हि एवमेव अधोगतिः भवति क्रमशः । सकृत् भ्रष्टस्य अधःपतनं सहजम्’ इति ।







भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः

विकिपीडिया
स्वतन्त्रविश्वविज्ञानकोशः
विकिशब्दकोशः
शब्दकोशपर्यायशब्दकोशश्च
विकिपुस्तकानि
सौजन्यपाठपुस्तकानि
विकिस्रोतः
स्वतन्त्रसामग्रीपुस्तकालयः
अण्डकुलायनिलायस्ययन्त्र
हि तन्मात्रनवभाषापाठान्तरम्
सामान्यम्
सर्वसामान्यमिडियास्थलम्


विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

This article is issued from Wikiquote. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.