शास्त्रीयलेखाः
ऐतरेयोपनिषत् ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता विद्यते। अस्याम् उपनिषदि त्रयः अध्यायाः विद्यन्ते। प्रथमे अध्याये त्रयः खण्डाः। द्वितीये तृतीये च अध्याये एकैकः खण्डः विद्यते। आत्मनः वर्णनम् आत्मना कृता सृष्टिः च अस्याः उपनिषदः विषयाः। आदौ विश्वे आत्मामात्रम् आसीत्, नान्यत् किमपि इत्येतेन तत्त्वज्ञानपूर्णेन वाक्येन एव अस्याः उपनिषदः आरम्भः भवति। अन्यासु उपनिषत्सु इन्द्रियगोचरवस्तूनाम् उत्पत्तिः कथं जातम् इति निरूप्य अन्ते आत्मनः निरूपणं भवति। किन्तु अस्याम् उपनिषदि आत्मसाक्षात्कारं प्राप्तवद्भिः ऋषिभिः आदौ आत्मतत्त्वं निरूप्यते। आत्मना इदं विश्वं कथम् उत्पन्नम् इति निरूप्यते। विश्वस्य उत्पत्तेः मूलकारणानि विविधासु उपनिषत्सु बहुधा निरूपितं वर्तते। तेषां सर्वेषां निरूपणानां समन्वयं कृत्वा अस्याम् उपनिषदि निरूपितं यत् परमात्मनः सङ्कल्पशक्त्या विविधसृष्टिः जाता इति। (अधिकवाचनाय »)



अद्यतनं चित्रम्

भारतद्वारम्


सञ्चिका


आधुनिकाः लेखाः

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् भारतदेशस्य सर्वकारीयम् अन्तरिक्षसंशोधनसङ्घटनम्। दूरवाणी-सुविधा, भौगोलिक-छायाचित्रणं, वातावरणानुमानार्थं छायाचित्रणं, दूरसञ्चारसुविधाः इत्यादयः अद्यतनीयाः बह्व्यः सुविधाः उपग्रहाणाम् उपयोगकारणादेव अनुभवामः। एतादृशाः इदानीन्तन-मूलभूतावश्यकतानां परिपूरणार्थं बृहत्तन्त्रज्ञानम् आवश्यकम्। ५० वर्षेभ्यः प्रागस्माकं देशे याः सुविधाः आसन् ताः सर्वाः स्वदेशितन्त्रज्ञानोपरि आधारिताः नासन्। परम् इदानीं वयं स्वाभिमानेन वक्तुं शक्नुमः यत् अस्माकं देशस्य उपग्रहाः, उपग्रह-प्रक्षेपक-वाहनानि, तन्त्रज्ञानं च सर्वं भारतीयम् अस्ति। एवं कथनसामर्थ्यमपि येन सङ्घटनेन अस्मभ्यं दत्तं तत् सङ्घटनम् अस्ति इसरो। (अधिकवाचनाय »)



ज्ञायते किं भवता?
अष्टाङ्गयोगस्य अष्ट अङ्गानि कानि ?



अद्यतनं सुभाषितम्

कामान् दुग्घे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुष्कृतं या हिनस्ति।
तां चाप्येतां मातरं मङ्गलानां
धेनुं धीराः सूनृतां वाचमाहुः ॥

सु.भा. - वाग्वर्णनम् ८८/१२

लोके सर्वैः सज्जनानां सहवासं प्राप्तुं यत्नः करणीयः। तेषां सम्पर्केण अस्माकम् अनेके उपकाराः भवन्ति। सर्वेषां मङ्गलानां जननी इव स्थिता एषा सतां वाणी कामधेनुः इव अस्माकं सर्वाः इच्छाः पूरयति। अनिष्टात् अस्मान् दूरीकरोति। अतः एव पण्डिताः सज्जनानां वाचं कामधेनुं वदन्ति।


सहपरियोजनाः

विकिस्रोतः विकिसूक्तिः विकिशब्दकोशः विकिमीडिया मेटाविकि विकिकामन्स्
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.